शिवरात्रि

।।#शिवरात्रि_पूजन।। पुष्प मात्र अर्पण करने से भी शिव प्रसन्न हो जाते हैं-- न स्नानेन न वस्त्रेन न धूपेन न चार्च्चया । तुष्यामि न तथा पुष्पैर्यथा तत्रोपवासतः ॥” इति शङ्करोक्तेः ॥ * ॥स्कान्दे । शिव की विशेष कृपा के लिए रात्रि के प्रत्येक पहर में शिव को. स्नान करवाकर पूजा करें-- ततो रात्रौ प्रकर्त्तव्यं शिवप्रीणनतत्परः । प्रहरे प्रहरे स्नानं पूजाञ्चैव विशेषतः ॥ शिवरात्रि के व्रत को चांडाल आदि सभी कर सकते हैं-- शिवरात्रिव्रतं नाम सर्व्वपापप्रणाशनम् । आचाण्डालमनुष्याणां भुक्तिमुक्तिप्रदायकम् व्रत में यदि जागरण भी हो जाए तो महान फल है-- उपवासप्रभावेण बलादपि च जागरात् ।शिवरात्रेस्तथा तस्य लिङ्गस्यापि प्रपूजया । अक्षयान्लभते लोकान् शिवसायुज्यमाप्नुयात् ॥”पाद्मे । सभी को बारह वर्ष या चौबीस वर्ष तो शिवरात्रि का व्रत अवश्य करना चाहिए- वर्षे वर्षे महादेवि नरो नारी पतिव्रता । शिवरात्रौ महादेवं कामं भक्त्या प्रपूजयेत् ॥” ईश्वानसंहितायाम् “एवमेव व्रतं कुर्य्यात् प्रति संवत्सरं व्रती ।द्वादशाब्दिकमेतद्धि चतुर्व्विंशाब्दिकं तथा । सर्व्वान् कामानवाप्नोति प्रेत्यचेह च मानवः ॥ प्रदोषव्यापिनी(सूर्योदय से 48 मिनट पहले से सूर्यास्त तक) चतुर्दशी में व्रत करें- प्रदोषव्यापिनी ग्राह्या शिवरात्रिचतुर्द्दशी ॥ ”प्रदोषमाह वत्सः ।“प्रदोषोऽस्तमयादूर्द्ध्वं घटिकाद्वयमिष्यते ॥” दिनमानप्रमाणेन या तु रात्रौ चतुर्द्दशी ।शिवरात्रिस्त सा ज्ञेया चतुर्दश्यान्तु पारणम् ॥”इति गौतमीयाच्च। रात्रि में सबका पूजन उत्तर दिशा में मुख करके करें।शिव का पूजन तो हमेशा उत्तर मुख ही करें- रात्रावुदङ्मुखः कुर्य्यात् दैवकार्य्यं सदैव हि । शिवार्च्चनं सदाप्येवं शुचिः कुर्य्यादुदङ्मुखः ॥ शिवपूजन मे दक्षिण में बैठकर उत्तराभिमुख होकर पूजन करें- न प्राचीमग्रतः शम्भोर्नोदीचीं शक्तिसंस्थिताम् ।न प्रतीचीं यतः पृष्ठमतो दक्षं समाश्रयेत् ॥ पंचवक्त्र में शिव का संहार मुख पूर्व में होने से यजमान उधर खड़ा होकर पूजा न करें-- ”यजमानः शम्भोः प्राचीमवस्थितये न समाश्रयेत् शम्भोर्जगत्संहारकस्याग्रतः सांमुख्यात् पञ्चवक्त्रपक्षे प्रधानं वक्त्रं प्राच्यवस्थितम्। एकमुख शिव विग्रह में उतराभिमुख ही प्रशस्त है-- सौम्यं मौलीन्दुभृत् त्र्यक्षं एकवक्त्रं चतुर्भुजम् शिवरूपं गृहे कुर्य्यात् प्रासादे वाप्यनिन्दितम् ॥ भस्म त्रिपुंड तथा रूद्राक्ष धारण करके ही पूजा सफल मानी गई है-- विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया । पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः । तस्मान्मृदापि कर्त्तव्यं ललाटेऽपि त्रिपुण्ड्रकम्। विष्णु, शिव या देवी पूजा से पहले सूर्य को अर्घ्य अवश्य दें- यावन्न दीयते चार्घ्यं भास्कराय निवेदितम् ।तावन्न पूजयेद्विष्णुं शङ्करं वा महेश्वरीम्।। अन्य को शंख से अर्घ्य देना उत्तम है पर शिव और सूर्य को नहीं-- सर्व्वत्रैव प्रशस्तोऽब्जः शिवसूर्य्यार्च्चनं विना ॥ पुष्प दान अवश्य करें- तस्मात् पुष्पप्रदानेन लिङ्गेषु प्रतिमासु च ।अशीतिवर्षकोटीनां दुर्गतिं न नरो व्रजेत् ॥”स्कान्दे। गाय का घी न हो तो शुद्ध तैल का दीपक भी दे सकते हैं-- तैलेनापि हि यो दद्यात् घृताभावेन मानवः । तेन दीपप्रदानेन शिववद्राजते भुवि ॥”नन्दिकेश्वरे ।“ प्रातः हाथ में जल लेकर संकल्प करें-- प्रातरुदङ्मुखः तत् सदित्युच्चार्य्य सूर्य्यः सोम इति पठित्वा जलादीन्यादाय सङ्कल्पयेत् यह स्तुति पढ़ें-- ।“मन्त्रेणानेन गृह्नीयान्नियमं भक्तिमान्नरः ।शिवरात्रिव्रतं ह्येतत् करिष्येऽहं महाफलम् । निर्विघ्नमस्तु मे चात्र त्वत्प्रसादाज्जगत्पते ॥ चतुर्दश्यां निराहारो भूत्वा शम्भो परेऽहनिभोक्ष्येऽहं भुक्तिमुक्त्यर्थं शरणं मे भवेश्वर ॥ अर्थात् आज मैं निराहार रहकर आपका व्रत करूंगा। पूजा- रात्रौ प्रथमप्रहरे प्रतिष्ठिते लिङ्गे अप्रतिष्ठितेवा प्रतिष्ठां विधाय पूजां कुर्य्यात् । हौँ अस्त्रायफडिति पादघातत्रयेण विघ्नान्निःसार्य्य तेनैवतालत्रयेण करच्छोटिकया च दशदिग्बन्धनंकृत्वा भूतशुद्धिं विधाय हां हृदयाय नम इत्यादिना षडङ्गानि न्यस्य हौँ इति मन्त्रेण प्राणायामं विधाय पूजयेत् । पार्थिवलिङ्गे चेत्तदावक्ष्यमाणपूजाविधिना पूजयेत् । तत्रायं विशेषःहौँ ईशानाय नम इति । पहले पहर दूध से स्नान कराए़ तथा जल से अर्घ्य दें - प्रथमप्रहरे दुग्धेनस्नापयित्वा पुनर्जलेन स्नापयित्वा ।“शिवरात्रिव्रतं देव पूजाजपपरायणः । करोमि विधिवद्दत्तं गृहाणार्घ्यं महेश्वर ॥” इत्यनेनार्घ्यं दत्त्वा गन्धादिभिः संपूज्यमूलमन्त्रजपित्वा प्रणम्य गीतनृत्यादिभिस्तं प्रहरं नयेत् प्रति पहर जप ,ध्यान, भजन कीर्तन करें। ॥“तद्ध्यानं तज्जपः स्नानं तत्कथाश्रवणादिकम् । उपवासकृतौ ह्येते गुणाः प्रोक्ता मनीषिभिः ॥”इति देवीपुराणे सामान्यतः श्रवणात् अत्रापितथा ॥ * ॥ दूसरे पहर दही से स्नान कराएं-- द्वितीयप्रहरे तु विशेषः । हौँअघोराय नम इति दध्ना स्नानम् । अर्घ्यमन्त्रस्तु ॥“नमः शिवाय शान्ताय सर्व्वपापहराय च ।शिवरात्रौ ददाम्यर्घ्यं प्रसीद उमयां सह ॥” * ॥ तीसरे पहर घी से स्नान कराएं-- तृतीयप्रहरे तु । हौँ वामदेवाय नम इतिघृतेन स्नानम् । अर्घ्यमन्त्रस्तु ।“दुःखदारिद्य्नशोकेन दग्धोऽहं पार्व्वतीश्वर ।शिवरात्रौ ददाम्यर्घ्यमुमाकान्त गृहाण मे ॥ * ॥ चौथे पहर शहद से स्नान कराएं। चतुर्थप्रहरे तु । हौँ सद्योजाताय नम इतिमधुना स्नानम् । अर्घ्यमन्त्रस्तु ।“मया कृतान्यनेकानि पापानि हर शङ्कर ।शिवरात्रौ ददाम्यर्घ्यं उमाकान्त गृहाण मे ॥”ततो नमः शिवाय इति मूलमन्त्रं जपित्वाप्रभातेऽविघ्नेन इत्यादिवक्ष्यमानमन्त्रान् पठेत् ॥तथा च गरुडपुराणम् ।“मूलमन्त्रं ततो जप्त्वा प्रभाते तत् समापयेत् ।अविघ्नेन व्रतं देव त्वत्प्रसादात् समर्पितम् ॥ सुबह क्षमा प्रार्थना करें- क्षमस्व जगतां नाथ त्रैलोक्याधिपते हर ।यन्मयाद्य कृतं पुण्यं तद्रुद्रस्य निवेदितम् ॥त्वत्प्रसादान्मया देव व्रतमद्य समर्पितम् ।प्रसन्नो भव मे श्रीमन् मद्भूतिं प्रतिपद्यताम् ।त्वदालोकनमात्रेण पवित्रोऽस्मि न संशयः ॥” अगले दिध ब्राह्मणों को दानादि देकर व्रत खोलें-- परदिने ब्राह्मणान् भोजयित्वा चतुर्दशीलाभेतत्र तदलाभे अमावस्यायां पारणं कुर्य्यात् ।तत्र मन्त्रः ।“संसारक्लेशदग्धस्य व्रतेनानेन शङ्कर ।प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव ॥” ब्राह्मणों के दर्शन ,पूजा से शिव बहुत प्रसन्न होते हैं अतः सभी ब्राह्मण व्रत पूजन जरूर करें-- शिववाक्यं स्कान्दे ।“विप्रस्य तु सदैवाहं शुचेरप्यशुचेरपि ।गृह्वन् वलिं प्रहृष्यामि विप्राणामिव दर्शनात् ॥ शूद्रादि भी जो नित्य कर्म करता है उसकी भी पूजा स्वीकार करते हैं-- शूद्रः कर्म्माणि यो नित्यं स्वीयानि कुरुतेप्रिये ।तस्याहमर्च्चां गृह्वामि चन्द्रखण्डविभूषिते ॥” स्त्रियां #नमः शिवाय से प्राप्त जा, जप करें-- नमोऽन्तेन शिवायेनैव स्त्रीणां पूजा विधीयते ॥”एवकारेण प्रणवनिवृत्तिः । एवं शूद्रस्यापि ।तथा नृसिंहतापनीये । पूजा का जल,फूल शिव निर्माल्य सिर पर धारण करें-- निर्म्माल्यं यो हि मद्भक्त्या शिरसा धारयिष्यति ।अशुचिर्भिन्नमर्य्यादो नरः पापसमन्वितः ॥ नरके पच्यते घोरे तिर्य्यग्योनौ च जायते । ब्रह्महापि शुचिर्भूत्वा निर्म्माल्यं यस्तु धारयेत् तस्य पापं महच्छीघ्रं नाशयिष्ये महाव्रते ॥ जैसे शिव हैं वैसा ही बहुत विस्तार इनकी पूजा का है। फिर भी भोलेनाथ एक बार शिव कहने से प्रसन्न हो जाते हैं तथा दो बार शिव शिव कहने से ऋणी हो जाते हैं। बोलिए जय शिव !शिव! शिव! कृष्ण चंद्र शास्त्री। 10.3.21

टिप्पणियाँ