पुराणोक्त सन्ध्योपासना प्रयोग

पुराणोक्त सन्ध्योपासना प्रयोग - (स्त्री,शूद्र,अनुपनीतेषु) भस्मधारणम्..... वामहस्ते जलसम्मिश्र-भस्मं गृहित्वा - हस्तद्वयेन मर्दनम् - "नमः शिवाय" सूर्याय दर्शयित्वा - ललाटे - ईशानाय नमः। ग्रीवायां - तत्पुरुषाय नमः। दक्षिणबाहौ - अघोराय नमः। वामबाहौ - वामदेवाय नमः। हृदये - सद्योजाताय नमः। इति चातुर्वर्णभेदेषु - द्वादशांगुल,अष्टांगुल,षडंगुल,चतुरंगुल प्रमाणेण त्रैपुण्ड्रकाणि कुर्यात्। ललाटे केवलं स्त्रीणामपि चतुरंगुलम्। हस्तं प्रक्षाल्य चूडा,वा शिखा बन्धनम् - चिद्रूपिणी महामाये दिव्यतेज समन्विते। तिष्ठ देवि शिखामध्ये तेजोवृद्धिं कुरुष्व मे। पुनश्च हस्तौ प्रक्षाल्य. आचमनम् - ह्रीं आत्मतत्वाय नमः स्वाहा। ह्रीं विદ્યાतत्वाय नमः स्वाहा। ह्रीं शिवतत्वाय नमः स्वाहा। ह्रीं सर्वतत्वाय नमः स्वाहा। हस्तं प्रक्षाल्य प्राणायामः - नमःशिवाय इति पूरक,कुम्भक,रेचकविधिना नवावर्तनपूर्वकं प्राणानायम्य। हस्तं प्रक्षाल्य. अत्रार्ध महामांगल्य फलप्रद मासोत्तमे मासे (अमुक) मासे (अमुक) पक्षे (अमुक) शुभ पुण्य तिथौ (अमुक) वासरे अमुक.... गोत्रोत्पन्नस्य अमुक....वेदान्तर्गत अमुक.... शाखाध्यायी अमुक....प्रवरान्वितोऽहं, अमुक... अवटंकी अमुक.... महोदस्य आत्मजः अमुक... शर्मा अहं ममोपात्त दुरीतक्षयार्थम् देवतापूजनादि अधिकार प्राप्ति अर्थं परमेश्वर प्रीत्यर्थं च प्रातः संध्योपासना अहं करीष्ये। जल पात्रे -अनामिकया स्पृशन् - ह्रीं गंगे च यमुने चैव गोदावरि सरस्वति। नर्मदे सिन्धु कावेरि जलेस्मिन् सन्निधिं कुरु।। मत्स्यमुद्रा आच्छाદ્ય,धेन्वा अमृतीकृत्य। अष्टवारं "वं "बीजेन अभिमंत्रणम्। आसनसिद्धिः आसनं स्पृष्टवा वदेत्.... पृथ्वीत्वयाधृता लोका देवी त्वं विष्णुना धृता। त्वं च धारय माम् देवी पवित्रं कुरुचासनम्। ह्रीं आधारशक्त्यै नमः। दिक्गरक्षणम्.....वामहस्ते अक्षतं वा जलं गृहित्वा ...... अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिता। ये भूता विघ्नकर्तारः ते नश्यन्तु शिवाज्ञया।। पवित्रीकरणम्... स्वदेहे जल प्रोक्षणम्... ह्रीं अपवित्रं पवित्रोवा सर्वावस्थांगतोपिवा यः स्मरेत् पुंडरीकाक्षं स बाह्यआभ्यन्तरः शुचिः। कुशत्रयेण - "नमःशिवाय" मंत्रेण भूमौ वारत्रयं तत्तोयं क्षिप्त्वा तेनैव कुशत्रयेण मूलमन्त्रेण च मस्तके सप्तवारं प्रोक्षेत् । न्यासः - अस्य श्री नमः शिवाय इति पंचाक्षरी मंत्रस्य वामदेवर्षिः पंक्तिश्छंदः ईशानो देवता मंत्रसन्ध्यायां सर्वकर्मसु च विनियोगः। पंचाक्षरी मंत्रस्य वामदेव ऋषये नमः शिरसि।पंक्तिश्छंसे नमो मुखे। ईशानो देवतायै नमो हृदये। मंत्रसंध्यायां सर्वकर्मसु च विनियोगाय नमः सर्वांगे। नं अंगुष्ठाभ्यां नमः। मं तर्जनीभ्यां नमः। शिं मध्यमाभ्यां नमः। वां अनामिकाभ्यां नमः। यं कनिष्ठिकाभ्यां नमः। नमःशिवाय करतलकरपृष्ठाभ्यां नमः। नं हृदयाय नमः। मं शिरसे स्वाहा। शिं शिखायै वषट्। वां कवचाय हुम्। यं नेत्रत्र्याय वौषट् नमःशिवाय अस्त्राय फट्। अथ ध्यानम् मृत्युंजय महादेव त्राहिमाम् शरणागतम्। जन्ममृत्यु जराव्याधिः पीडितं कर्मबंधनैः।। वामहस्ते पात्राद्दुदकं गृहित्वा दक्षिणहस्तेनाच्छाद्य "हंय्यंव्वंलंरं" इति त्रिवारं पठित्वा अभिमंत्र्य । अनामिकांगुष्ठप्रथमपर्वसंयोगेन तत्त्वमुद्रया मस्तके "नमः शिवाय " इति सप्तवारं अभ्युक्ष्य। अघमर्षण-शेषजलं दक्षिणहस्ते गृहित्वा जले तेजोरूपं ध्यात्वा इड्या(वामनासिकया), श्वासमाकृष्य देहेस्थित कुंभकेन(श्वासनिरोध)समस्तपापौघं प्रक्षालितं भावयन् । तद् उदके कृष्णवर्णं अधोमुखं पापपुरुषं ध्यात्वा पिङ्गलया(दक्षिणनासिकया उच्छवासरूपेण) देहाद्बहिर्निष्कास्य पुरःकल्पित वज्रशिलायां हस्तस्थजलं अनवलोक्य "फट्" इति मन्त्रेण क्षिप्त्वा । हस्तं प्रक्षाल्य। पुनः पूर्वरित्या आचम्य ।। ➡️ अर्घ्यदानम् - ह्रीं यो देवः सविताऽस्माकं मनः प्राणेन्द्रिय क्रियाः। प्रचोदयति तद्भर्गं वरेण्यं समुपास्महे।। श्री सूर्यनारायणाय नम इदं अर्घ्यं समर्पयामि। इति अर्घ्यत्रयं वा उदिते चतुर्वारं दत्वा। आत्मनः समन्तात् जलं क्षिपेत्। सूर्यमण्डले शिवरूपं ध्यात्वा - अथ ध्यानम् मृत्युंजय महादेव त्राहिमाम् शरणागतम्। जन्ममृत्यु जराव्याधिः पीडितं कर्मबंधनैः।। ह्रीं सूर्यमण्डलस्थायै शिवदेवतायै नमः।। इति नमस्कृत्य।। "ह्रीं यो देवः सविताऽस्माकं मनः प्राणेन्द्रियक्रियाः। प्रचोदयति तद् भर्गं वरेण्यं समुपास्महे।। इति पुराणोक्त गायत्री मंत्रेणाष्टोत्तरशतवारं जपेत्।। यथाशक्तिः " नमः शिवाय" इति मूलं च जप्त्वा।। 🌞जपनिवेदनम् अनेन सन्ध्योपासना अंगभूतं गायत्रीजप सहित मूलमंत्र जप कर्मणा कृतेन श्री सूर्यनारायणः प्रीयताम्।। 🌞नमस्कारः - आदिदेव नमस्तुभ्यं प्रसीद मम भास्करः। दिवाकरः नमस्तुभ्यं प्रभाकर नमोस्तुते।। आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने। जन्मान्तर सहस्रेषु दारिद्र्यं नोपजायते।। अनेन सन्ध्योपासनाख्येन कर्मणा भगवान् परमात्मा श्री सवितृ सूर्यनारायणः प्रीयताम् न मम।। भूमौ किंचिज्जलं क्षिप्त्वा आर्द्रमृत्तिकया ललाटे लक्ष्मं(चिन्हं)कुर्यात् ।। इति।। अमुक... गोत्रोत्पन्नस्य अमुक...वेदान्तर्गत अमुक... शाखाध्यायी अमुक..प्रवरान्वितोऽहं, अमुक.... अवटंकी अमुक.... महोदस्य आत्मजः अमुक.... शर्मा भोःईश्वर त्वां अभिवादये।आचार्य त्वाम् अभिवादये। 🙏🙏🙏तत्सत् इति।।

टिप्पणियाँ